Vedshala
वेधशाला परिचय:
भारतीयस्य ज्योतिर्विज्ञानस्य सर्वोत्कृष्टा विशेषता वर्तते, यदिदं प्रत्यक्षं शास्त्रमस्ति। इदं शास्त्रम् विद्यते। शास्त्रेऽस्मिन, प्रत्यक्षताया: अर्थ:"गणितेन साधितानां स्पष्टग्रहाणां यथात्थयेन प्रदर्शनम्।" अस्माकं प्राचीनगणितज्ञै: स्पष्टग्रहग्रहणग्रहोदयास्तादीनां गणितीयसिद्धांतानां प्रत्यक्षीकरणार्थं प्राचीनकालादेव वेधस्य प्रक्रियाया: आश्रय: गृहीतः। वराहमिहिरस्य पञ्चसिद्धांतेषु अपि च लल्ल-श्रीपति-भास्कराचार्य-कमलाकरभट्टसदृशानां विदुषां ग्रंथेषु 'त्रिप्रश्नाधिकार:' नामधेय: एकाध्याय: प्राप्यते, येन वयं शङ्कु: इत्यादिना सहाय्येन दिग्देशकालानां ज्ञानं कर्तुं शक्नुमः।
शास्त्रेषु येषां यन्त्राणां व्यवस्था वर्तते, तेषां माध्यमेन ग्रहावलोकनस्य प्रक्रिया 'वेध:' कथ्यते अपि च यस्मिन् स्थले सर्वेषामेतेषां यन्त्राणां स्थापनानन्तरं ग्रहाणां गते: सततमनुवीक्षणं क्रियते तत् स्थलं 'वेधशाला' इत्युच्यते। भारते, सर्वादौ महाराजासवाईजयसिंह: जयपुरे, देहल्यां, मथुरायां, उज्जयिन्यां काश्यां च वेधशाला: निर्मितवान्। तेन निर्मितवेधशाला: 'जन्तर-मन्तर' नाम्ना प्रसिद्धा:। एतासु सर्वासु वेधशालासु तात्कालिकज्योतिर्विद्वान्सः स्व-शिष्यै: सह वेधशालाप्रक्रियामाध्यमेन 'ग्रहगणितस्य' सिद्धांतेषु शोधं कृतवन्तः। एताः सर्वाः वेधशाला: पाषाणनिर्मिता: सन्ति, यासु वर्तमाने कालक्रमेण विस्तार: दृश्यते।
अनेनैव विस्तारक्रमेण वेधशालायाः निर्माणं श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालये, नवदेहल्यां वर्तमाने वेधस्य प्रक्रियायाः प्रचाराय ज्योतिषस्य वास्तविकज्ञानं साधारणजनसौलभ्भाय च कृतम्। विश्वविद्यालयस्य सौभाग्यमिदम् यद् अस्मिन् कार्ये वेधशालानिर्माणे ज्योतिषविशेषज्ञाणां ज्योतिषविदुषां कल्याणदत्तशर्मणां साहाय्यं प्राप्तम्। यैरहर्निशं विश्वविद्यालयस्य वेधशालायाः यन्त्राणां निर्माणं परीक्षणं संशोधनञ्च कृतम्। अस्मिन् कार्ये ज्योतिषविभागस्य प्रमुख: डॉ. शुकदेव: चतुर्वेदी ज्योतिषविभागस्य प्राध्यापक: डॉ. ओंकारनाथ: चतुर्वेदी, पं. श्री शारदानिवास: शास्त्री, पं. श्री रामदेव: झा, डॉ. प्रेमकुमार शर्मा इत्यादयः यथासमये लग्नतया तत्परायणो भूत्वा सहयोगं कृतवन्तः। वेधशालायां निम्नलिखितयन्त्राणि निर्मितानि वर्तन्ते-
- नाडीवलय-यन्त्रम्
- याम्योत्तरीयतुरीययन्त्रम्
- सम्राटयन्त्रम्
- शंकुयन्त्रम्
- भारतीयतारामण्डलयन्त्रम्
- चक्रयन्त्रम्
- याम्योत्तरधरातलीयतुरीययन्त्रम्
- क्रान्तिवृत्तयन्त्रम्तु
- कर्क-मकर-तुला- वलययन्त्रम्
- षष्ठ्यंश-यन्त्रम्
वेधशाला:नाडीवलययन्त्रा
ध्रुवात् 60. अशंस्य दूरे यदाकाशे वृत्तम् वर्तितम् तद् नाडीवलयवृत्तम् वा विषुवतवृत्तं वर्त्तते। तद् नाडीवलयवृत्तम् आकाशे द्वयोः भागयोः विभाजितम् अस्ति। अतः दक्षिणीगोलार्धे वा उत्तरिगोलार्धे इदं विभाजकं वृत्तं वर्तते। अस्य वृतस्य व्यासः पृथिव्यां भूमध्यरेखानाम्नः विख्यातः। भूमध्यरेखास्थनगराक्षांशः शून्यं भवति । अस्य मूलतः कारणं तेषु नगरेषु दक्षिणीध्रुवमुत्तरीध्रुवञ्च शिखरे श्लिष्टे दृश्यते। अर्थात् ध्रुवोन्नत्तिशून्यभवने अक्षांशोऽपि शून्यमेव दृश्यते।
ध्रुवोन्नति एव अक्षांशस्य द्योतकं विद्यते। विषुवतवृत्तं यावदपि उत्तरे दक्षिणे च अपसर्पति तावदपि उत्तरीध्रुवः दक्षिणीध्रुवं च क्षितिजात् उन्नतं दृश्यते। तर्कय किञ्चिन्नगरं भूमध्यरेखायाः या नाडीवलयस्य व्यासरेखा विद्यते तस्याः उत्तरे 2° अन्शे स्थितो वर्तते। अस्य आशयोऽयं वर्तते यदमुष्य नगरस्य़ क्षितिजात् उत्तरीध्रुवे 2° अन्शे उन्नतः वर्तते तथा दक्षिणीध्रुवात् क्षितिजात् 2° अन्शे अवनतः दृश्यमानो न भवति। एवं किञ्चिन्नगरं नाडीवलयव्यासरेखा भूमध्यरेखायाः 2° अन्शः दक्षिणे अपसर्पितः वर्तते, तथा तत्रेव दक्षिणीध्रुवं क्षितिजात् 2° अन्शे उन्नतः भवति तथा उत्तरीध्रुवं क्षितिजात् 2° अन्शे अवनतः दृश्यमानो न भवति। इत्थं यस्मिन् देशे उत्तरीध्रुवं क्षितिजात् यावति अन्शे उन्नतः भवति तदेव अमुष्य देशस्य उत्तराक्षांशः उच्यते।
देहल्यां उत्तरीध्रुवः28°अंशः 36कलाद्धं क्षितिजात् उन्नतः प्रत्यक्षं दृश्यते, अतः देहल्याः 28°/36 उत्तराक्षांशःउच्यते । मोरिशसे दक्षिणीध्रुवं क्षितिजात् उन्नतः वर्तते अतः तत्र दक्षिणाक्षांश उच्यते। शून्याक्षांशधरातले स्थितेषु देशेषु उभौ ध्रुवौ दृश्येते, अन्यत्रैकैव। भूमध्यरेखायां शून्याक्षांशकारणेन चराभावेन तत्र प्रतिदिनं 12होरा दिनं 12होरा रात्रिर्भवति। अर्थात् दिवारात्री समाने भवतः। अन्यत्र चरकारणेन दिवारत्र्योः मानं वर्धते अपक्षीयते च भूमध्यरेखायां आसन्नं कम्पाला, जिना, किसुमु एल्दोरेट, नुकरो, विक्टोरिया, इत्यादयः सन्ति पूर्णभूमध्यरेखायां स्टेनलेप्रपात इति दक्षिणाअफ्रिकायां विद्यते। केवलं सायनमेषार्कः 21मार्च, सायनतुलार्कः 23सितम्बर इत्यस्मिन् दिने एव रात्रिमानः समानः भवति। मेषादिके देशेषु 21 मार्च तथा 23सितम्बर इत्यस्मिन् क्रान्तिशून्यकारणेन दिवारत्र्योःमानं समानं भवति।तस्मिन्नेव दिने मध्याह्नकाले शन्कुः 12अङ्गुल्याः छायावदङ्गुलीयात्मिकी भवति। तदेव पलभा इति उच्यते। तथा याम्योत्तरधरातलस्थिते शङ्कुना अक्षांश्तुल्यमेव नतांशः प्राप्यते। आकाशीयनाडीवलयधरातले वृत्तवर्तने पृथिव्यां नाडीवलययन्त्रं निर्मीयते। आकाशस्थानीयाक्षांशतुल्यमेव कोणे वर्तितं वृत्तमेव पृथिव्यां नाडीवलयवृत्तम् निर्मीयते।अस्मिन्नाडीवलययन्त्रे ग्रहनक्षत्राणां गोलज्ञानं भवति। दक्षिणे स्थिते सति नाडीवलयोपशिष्य आकाशदर्शने आकाशीयदक्षिणगोलग्रहनक्षत्रा दृश्यन्ते। एवमुत्तरे स्थिते सति नाडीवलयोपशिष्य आकाशदर्शने आकाशीयोत्तरगोलग्रहनक्षत्रा दृश्यन्ते।
गोलज्ञानं विहाय स्थानीयसमयः स्वबंस-उप्मद्धम् इत्यादीनां ज्ञानमपि भवति। केन्द्रस्थशङ्कोः छाया यावत्यां होरायां निमेशेषु दृश्येत स एव स्थानीयसमयः भविष्यति, तस्मिन् स्थानीयस्पष्टान्तरनिमेषसंस्कारकरणे भारतीयस्टैण्डर्डसमयज्ञानं भवति। स्थानीयमध्यान्तरे वेलान्तरसंस्कारकरणे स्पष्टान्तरं ज्ञायते, यथा 21 फ़रवरी इत्यस्मिन् देहल्यां नाडीवलययन्त्रेण 10:30 वादनं समयः दर्शितः असौ समयः स्वबंश-उपमद्ध इति वर्तते , एनं भारतीयस्टैण्डर्डसमये ज्ञातुं अत्रत्य मध्यान्तरं 21मिनट 8 सैकेण्ड फ़रवरी इत्यस्य वेलान्तरात् 13मिनट 43 सैकेण्ड इत्यस्य संस्कारकरणे 34मिनट 51 सैकेण्ड इत्यस्य स्पष्टान्तरं प्राप्तम्, अस्य विपरीतसंस्कारे 10:30 वादनम् स्थानीयसमये योजने 11:04:51 भारतीयस्टैण्डर्डसमयः भविष्यति। यदा अर्कह् दक्षिणीगोलायां वेत्स्यते तदा दक्षिणदिशि वर्तितस्य वृत्तस्य शङ्कुछायया समयज्ञानं भवति। 21मार्च दिनाङ्कात् 22सितम्बरपर्यन्तमर्कः उत्तरीगोलायां भवति तथा 23सितम्बरदिनाङ्कात् 20मार्चपर्यन्तं दक्षिणीगोलायांभ भवति । सूर्यः यस्मिन् गोलार्धे भवति तस्माद् विपरीतदिशि यन्त्रं धरातलाद् उपशिष्य दर्शने 6मासपर्यन्तं सूर्यस्य दर्शनं न भवति।
यन्त्रेणानेन स्पष्टान्तरस्य स्वतः ज्ञानं भवति। रेडियोमध्यमेन घटिकासमयस्य तथा च नाडीवलयस्थानीयसमयस्य अन्तरमेव स्पष्टान्तरं भवति। इत्थं प्रतिदिनं स्थानीयसमयं दर्शयित्वा स्पष्टान्तरस्य अपि प्रतिदिनं सङ्केतं प्राप्यते। स्पष्टान्तरे मध्यान्तरस्य संस्कारकरणे वेलान्तरस्यापि ज्ञानं भवति तथा स्पष्टान्तरे वेलान्तरस्य संस्कारकरणे मध्यान्तरस्यापि ज्ञानं यन्त्रेणानेनैव ज्ञानं भवति।
वेधशाला: याम्योत्तरीयतुरीययन्त्रा
परिधेः चतुर्थभागः एव तुरीययन्त्रमुच्यते। वा अद्यतनीयायां भाषायां डीद्ध इत्यस्य अर्धरूपः एव तुरीययन्त्रमुच्यते।एनं तुरीयचापं 60° इत्यस्मिन् विभज्य प्रतिभिन्नं स्थितौ संस्थाप्य प्रतिभिन्नंयन्त्रनिर्माणं भवति। एनं मध्याह्नकालीनयाम्योत्तरधरातले स्थापने याम्योत्तरीयतुरीययन्त्रं निर्मीयते। एनम् मध्याह्नवृत्तनाम्नः अपि ज्ञायते।
अस्य मुख्यकार्यं ग्रहनक्षत्रादीनां याम्योत्तरलङ्घनकालबोधनं वर्तते तथा तस्य ग्रहनक्षत्रस्य तस्मिन् समये कीयन्नतांशो वर्तते इदमपि तस्मिन् समये एव सङ्केतः क्रियते। नतांशेन तस्य ग्रहनक्षत्रस्य क्रान्तिरपि ज्ञायते। क्रान्त्या उदयास्तसमयः, तस्य दिनमानम्, गोलज्ञानम्, सायनभोगांशादीनां पदार्थानां ज्ञानमपि भवति। दिवसे याम्योत्तरलङ्घनकालः सदा सर्वत्र च स्थानीयातपघटिकानुसारेण 12वादनमेव भवति। दिवसे 12वादने यन्त्रास्थशङ्कुछाया यावत्यप्यंशे गच्छेत् ते अंशादयः मध्याह्नकालस्य स्पष्टनतांशः भवति । “क्रान्त्यक्षजसंस्कृतिर्नतांशाः” अनेन सिद्धान्तानुसारेण नतांशः वस्तुतः अक्षांशे योगवियोगरूपः एव भवति । सूर्योत्तरगोलस्थितिहेतु अक्षांशे क्रान्तिवियोगरूपे नतांशा ज्ञायन्ते। अक्षांशस्तु स्थिरपदार्थः स्यात् किञ्च क्रान्तिमानं प्रतिदिनंवर्धतेऽपक्षीयते च। 21 मार्च तथा 23 सितम्बर इत्यस्मिन् क्रान्तिमानशून्यः भवने नतांशमानमक्षांशतुल्यमेव भवति।क्रान्त्याभावः चरपलभावोऽपि भवति। कारणेनानेन तस्मिन् दिने दिनमानं वा रात्रिमानं सर्वदा सर्वत्र च समानमेव भवति।
21मार्चानन्तरं प्रतिदिनं शङ्कुछायामानं 21 मार्च इत्यस्य अपेक्षा न्यूनञ्जायमानो भवति। देहल्यां 21 मार्च इत्यस्मिन् शङ्कुछाया अस्मिन् यन्त्रे 28° अंशे 36कलायाम् आपतति। यदत्रत्याक्षांशमानं विद्यते ।तदनन्तरं प्रतिदिनं छायामानन्यूनेभवने सति 22 जून् इत्यस्मिन् 5° 11कलायामेव छाया दृश्यते।अतः सम्पूर्णवर्षे प्रतिदिनं देहल्यां यद्दिनमानं भवति तस्मिन् अस्य दिनस्य मानं सर्वाधिकं भवति। 22जून इत्यान्तरं अस्य नतांशस्य क्रमशः वृत्तिः 23 सितम्बर् इत्यस्मिन् मध्याह्नकाले शङ्कुछाया 28° तथा 36 कलायां दरिदृश्यते तथा च दिनमानं वा रात्रिमानं अस्य दिनस्य सममेव भवति एवमस्यैव दिनसायनतुलारशौ सूर्यसङ्क्रमण वेत्स्यते ।तदनन्तरं प्रतिदिनं स्पष्टमध्याह्ने शङ्कुछाया क्रमशः वर्धनात् नतांशसङ्ख्या वर्धं वर्धम् 22 दिसम्बर् इत्यस्मिन् शङ्कुछाया 42° अंशः 05कलायां दृश्यते ।तथा च अस्मिन् एव दिने देहल्याः दिनमानं सर्वाधिकन्यूनं भवति एवम् क्रान्त्याः मानं परमक्रान्त्यंशतुल्यं भविष्यति। उपर्युक्तविवेचनात् इदं सिद्धं 23 सितम्बरानन्तरं नतांशस्य सङ्ख्या इतोऽपि वर्धत एव तथा 21 मार्चमासात् नतांशसङ्ख्या प्रतिदिनं देहल्याः अक्षांशः 28° अन्शः 36 कलायाः न्यूनं भवति। 21 मार्चमासात् नतांशसङ्ख्या यावत्यपि न्यूना भविष्यति, सैव उत्तरक्रान्तिमानं भविष्यति। इत्थं प्रतिदिनक्रान्त्त्याक्षांशमानम् शङ्कुतलस्थलम्बरेखापर्यन्तं माने योजनेन प्रतिदिनं देहल्याः अक्षांशमानमेव ज्ञायमानो भवति।
वेधशाला: सम्राट्-पलभा-यन्त्रा
अस्य यन्त्रस्य निर्माणं विषुवद्वृत्तीयधरातले भवति। अभिष्टस्थाने विषुवद्वृत्तस्य स्पष्टम्ध्याह्नकाले मापस्य शङ्कुछाया या उपलब्धा भवति। तस्यैव नाम पलभा वर्तते। विषुवद्दिनं आधूनिककाले 21 मार्च तथा 23 सितम्बर इत्यस्मिन् भवति। अस्मिन्नेव् दिने क्रमशः सायनमेषे तथा सायनतुलाराशौ सूर्यस्य सङ्क्रमणं भवति। तथा अस्मिन्नेव् दिने विषुवद्वृत्ते सूर्यभ्रमणात् प्रत्येकस्थाने दिवारत्री समाने भवतः। पलभा भुजः, लम्बज्याकोटिः,त्रिज्याकर्णः एनान् अक्षक्षेत्रज्ञाः जानते। इत्थं अभिष्टसाक्षं देशेषु 21 मार्च तथा 23 सितम्बर इत्यस्मिन् स्पष्टम्ध्याह्नकाले अभिष्टमापस्य शङ्कुछायामापं स्वीकृत्य अस्य द्वादशङ्गुलमापे परिवर्तनात् स्व-स्वस्थानीयपलभाज्ञानं भवति। अस्मिन् सम्राटपलभायन्त्रे तु तीर्यकरेखाकर्णात्मिकी वर्तते। तद् पालकर्णस्य तथा अक्षकर्णस्य एव द्योतकं वर्तते। यथा देहल्यामियं कर्णरेखा 28° अंशः 36कलायाः अक्षज्याकर्णो विद्यते, इत्थमेव प्रत्येकदेशे इयं कर्णरेखा स्वकीयाक्षज्याकर्णरेखानाम्नः ज्ञायते। निरक्षखमध्यसाक्षखमध्ययॊः अन्तरम् अक्षांशतुल्यमेव भवति। इदं सर्वविदितं विद्यते। अतः अक्षकोणतुल्यदूरे वर्तिते वृत्ते एव पृथिव्यां विषुवद्वृत्तधरातलं निर्माति। विषुवद्वृत्तं तथा तत्सम्बन्धी अहोरात्रवृत्तेषु कालगणना घटङ्कात्मककारणेन विषुवद्वृत्तधरातले वर्तितवृत्तेऽपि घटङ्कात्मकम्, होरात्मकम्, कालसूचकयन्त्रं वर्तते।
कर्णशङ्कुम् उभयतः 60°-60° इत्यस्य चापं वर्तते। उभयतः होरानिमेषादयः विभक्ताः सन्ति। प्रातःकाले सूर्योदयात् परं अस्मिन् यन्त्रे निर्मिते पश्चिमभागचापे अतिमन्दगत्या छाया पूर्वदिशि अपसर्पति। तेनाधारेणैव स्थानीयसमयज्ञानं भवति। पश्चिमपार्श्वभागे निर्मिते चापे 6वादने प्रात आरभ्य द्वादशवादनपर्यन्तं स्प्ष्टमध्याह्नस्य गणना भवति। 12वादनादनन्तरं सूर्येण पश्चिमकपाले प्रविश्यते। तदा छाया पूर्वकपाले शनैः शनैः अपसर्पति। पूर्णस्पष्टमध्याह्नात् प्रायः 2निमेषपर्यन्तं छाया लुप्ता भवति, तदनन्तरं पूर्वकपाले दृश्यते। अस्मिन् 2निमेषस्य आसन्नकालछाया प्रायः 3होरायाः किञ्चित्किञ्चित् कृत्वा पूर्णं करोति। पूर्वकपाले 1वादनात् सायं 6वादनपर्यन्तं छायया समयः बुध्यते। ग्रीष्मर्तौ 6वादनपर्यन्तमपि सूर्यदर्शनं भवति, अतः उभयॊः पार्श्वयोः 15°-15° अंशस्य चापवर्धनप्रक्रियाप्रचलितमस्ति। येन प्रातः 5वादनात् सायं 7वादनपर्यन्तं स्थानीयसमयः ज्ञायते। अधुना सर्वत्र भारतीयस्टैण्डर्डसमयः उपयुज्यते तथा सर्वाः यान्त्रिकघटिकाः या निर्धनेभ्यः धनिकेभ्यः सर्वविधजनेभ्यः उपलभ्यते, तासु घटिकासु सुष्ठुसमयं ज्ञापितुमेतेषाम् आतपघटीनां स्पष्टान्तरस्य संस्कारः क्रियते स्पष्टान्तरसंस्कृतस्थानीयसमयः आतपघटिकासमयः भारतीयस्टैण्डर्डसमये परिवर्त्यते। स्पष्टान्तरसंस्कारः मध्यान्तरस्य तथा वेलान्तरस्य योगवियोगदिभ्यः प्राप्यते, यत् प्रतिवर्षं प्रतिदिनं प्रत्येकस्थाने सकृद्भवति। यथा देहल्यां 7मार्च इत्यस्मिन् 33निमेषात्मकं स्पष्टान्तरमस्ति तर्हि प्रतिवर्षं 33निमेषात्मकमेव भविष्यति, इत्थं प्रत्येकस्थाने स्व-स्वमध्यान्तरानुसारेण प्रतिवर्षं प्रतिदिनं समानमेव स्पष्टान्तरं भवति
वेधशाला: शङ्कुयन्त्रम्
एतद्यन्त्रं सिद्धान्तज्ञैः ज्योतिर्विद्भिः सुधिभिः अत्यधिकमहत्त्वं प्रतिपाद्य उपयुक्तम्। अस्य ज्वलन्तोदाहरणं (सिद्धान्तग्रन्थानां त्रिप्रश्नाधिकारः वर्तते) । अस्मिन्नध्याये दिक् देशः कालः इति त्रयाणां पदार्थानां वर्णनं विद्यते। अतः अस्य नाम त्रिप्रश्नाधिकारो वर्तते ।एतेषां त्रयाणामपि प्रश्नानामुत्तरं केवलं शङ्कुयन्त्रमेवोक्तम्। सिद्धान्तग्रन्थानां यन्त्राध्याये गोलः,नाडीवलयम्, चक्रम्, चापतुर्यम्, शङ्कुः, पफलकम्,यष्टिः, ध्रुवयष्टिः,इत्यादीनां यन्त्राणां वर्णनञ्जातम्। यस्मिन् केवलं शङ्कुयन्त्राधारेण त्रिप्रश्नाध्यायः लिखितः। अस्मिन्नध्याये पलभा, अक्षज्या, लम्बज्या, उन्नतांशज्या, नतांशकोटिज्या, छाया, छायाकर्णः, अग्राः, नतांशः, नतकालः, पूर्णरूपेण पूर्वे, पश्चिमे, उत्तरे, दक्षिणे दिशि बिन्दुज्ञानं केवलं शङ्कुयन्त्रेण क्रियते। आधूनिकयुगे षष्ठाङ्कांशः दूरदर्शक इत्यादयः आधूनिकयन्त्रैः उपर्युक्तपदार्थाः सुक्ष्मतया ज्ञायन्ते। प्राचीनकाले एतावत्सूक्ष्मयन्त्राभावे स्थूलमाने यज्ज्ञानप्रक्रिया शङ्क्वादियन्त्रैः विद्वद्भिः स्वीकृता वर्तते सा तेषां कुशलतां द्योतते, अस्मिन् किञ्चिदपि सन्देहो न विद्यते। प्राचीनयन्त्रैः प्राप्तमानम् आधूनिकयन्त्रैःप्राप्तमानात् स्थूलं त्वस्ति, परञ्च अधिकासन्नापि वर्तते। आधूनिकयुगे एतत् स्थूलमानं लम्बनम्, किरण-वक्रीभवनम्, अक्षविचलनम्, कालसमीकरणम्, इत्यादिभ्यः संस्कारेभ्यः संस्कृतार्वाचीनयन्त्रैः प्राप्तमानसमकक्षं निर्मीयते। एकस्य कठोरपदार्थस्य लम्बरूपदण्डः, यस्य अग्रिमभागः अधिकाधिकं तीक्ष्णं भवेत्, तं दण्डम् भूमौ निखायते। तस्य छायायाः सर्वं कर्म विधीयते । एतदेव शङ्कुयन्त्रमुक्तम्। समतलभूमिं ज्ञातुं सर्वाधिकसुगमा रीतीयं यत् तलतटं परितः आद्रमृद्भित्तिं निर्माय तस्मिन् सार्धैकाङ्गुली प्रगाढजलं पूरयित्वा ऋजुकाष्ठं समुन्नीय प्रतिभिन्नस्थलदर्शने सर्वत्रास्थजलस्य गहनता समानं भवेत् तर्हि स्थलं समतलं भवति। अधुना समतलभूमेः ज्ञानं स्पिरिटलेबलमाध्यमेन सुगमतया विधीयते।
दिग्ज्ञानम्
कालज्ञानम्
वेधशाला: भारतीयतारामण्डल
इदं यन्त्रं गोलाकारत्वेनैव निर्मितम्। अनेन यन्त्रेण दिग्, दिगंशः, अग्रा, उन्नतांशः, नतांशः, अक्षांशः, क्रान्तिः, ग्रहनक्षत्रादीनां दक्षिणगोला तथा उत्तरगोला इत्यस्य स्थितिः सायन्भोगांशः, राशिसङ्क्रमणम्, सूर्योदयः, तुल्याहोरात्रमानम्, पलभा, पलकर्णः, कालज्ञानम्, सर्वाधिकबृहद्दिनम्, सर्वाधिकन्यूनदिनम्, सूर्यास्तः, दिनमानम्, अयनः, ध्रुवदर्शनम्, इत्यादीनां पदार्थानां ज्ञानम् भवति।
दिगंशः-
देह्ल्याः क्षितिजधरातले 360° अंशः अङ्कितः, अभिष्टकाले शङ्कुछाया यत्र दृश्येत तत्र शङ्कौ रज्जुबन्धनेनासौ रज्जुः क्षितिजे यत्र बन्धिते, असावांशादीनामुत्तरबिन्दोः गणने दिगंशो ज्ञायते।
दिग्—-
क्षितिजे पूर्वपश्चिमोत्तरदक्षिणबिन्दु एव दिशां परिचायको वर्तते।
अग्रा, पलभा—
अग्रायाः दत्तांशाय सर्वादौ विषुवद्भागाग्रारेखाज्ञानं परमावश्यकम्। विषुवद्भागाग्रारेखा एव पलभायाः द्योतकं वर्तते। पलभेयं सायनमेषतुलादयेषु तथा सायनतुलादिषु सूर्यप्रवेशे ज्ञायते। 21 मार्च तथा 23 सितम्बर इत्यस्मिन् सूर्यः क्रमशः सायनमेषराशौ तथा सायनतुलाराशौ प्रविश्यते। अस्मिन् दिने स्पष्टमध्याह्ने शङ्कुछायामापमेव नाम्नः ज्ञायते, अस्य शङ्कुछायायाः अग्रभागात् श्लिष्य वृत्तपालीपर्यन्तं रेखाकर्षणे विषुवद्भागाग्रारेखा निर्मीयते। सायनमेषतुलादिषु अर्थात् 21 मार्च तथा 23 सितम्बर इत्यस्मिन् अग्रामानं शून्यम्भवति, पुनः प्रतिदिनं प्रातःकालशङ्कुछाया वर्धते। तस्मिन् वर्धने विषुवद्भागाग्रारेखान्तरमेव अग्रा नाम्नः व्यवह्रीयते, अर्थात् प्रातःकालीनशङ्कुछायायास्तथा विषुवद्भागाग्रारेखायाः मध्ये यदन्तरम्भवति सा अग्रा उच्यते।
वेधशाला: याम्योत्तरध्रातलीयतुरीययन्त्रा
अस्मिन् यन्त्रे दिने स्पष्टम्ध्याह्नकालान्तरशङ्कुछायया नतांशो ज्ञायते तथा रात्रौ अभिष्टग्रहस्य तथा नक्षत्रस्य याम्योत्तरलङ्घनकालं विज्ञाय तस्मिन्नेव समये तस्य नतांशो ज्ञायते। नतांशैः याम्योत्तरीयचापयन्त्रविध्यनुसारेण अन्ये सर्वे पदार्था ज्ञायन्ते।
वेधशाला: चक्रयन्त्रा
ध्रवयष्टिकायां 360 अंशाद् अङ्कितपरिधेः स्थापनया चक्रयन्त्रस्य आकृतिर्निमीयते। दिने यथेष्टकाले क्रान्तिः प्रतिदिनं ज्ञायते तथा रात्रौ अभिष्टग्रहनक्षत्राणां क्रान्तिर्ज्ञायते। केन्द्रस्थनलिकयाभिष्टग्रहनक्षत्रदर्शने नलिका चक्रयन्त्रस्य परिधौ लगेत्तर्हि दक्षिणा क्रान्तिर्ज्ञेया। रात्रौ कदाचिन्नक्षत्राभिज्ञाने भ्रमो भवति, अतः तस्य भ्रमस्य निवारणार्थाय अनेन चक्रेण क्रान्तिर्ज्ञायते।
वेधशाला: याम्योत्तरध्रातलीयतुरीययन्त्रा
अस्मिन् यन्त्रे दिने स्पष्टम्ध्याह्नकालान्तरशङ्कुछायया नतांशो ज्ञायते तथा रात्रौ अभिष्टग्रहस्य तथा नक्षत्रस्य याम्योत्तरलङ्घनकालं विज्ञाय तस्मिन्नेव समये तस्य नतांशो ज्ञायते। नतांशैः याम्योत्तरीयचापयन्त्रविध्यनुसारेण अन्ये सर्वे पदार्था ज्ञायन्ते।
वेधशाला: तुला-कर्क-मकरराशिवलययन्त्रा
इमानि त्रीणि यन्त्राणि परमोपयोगिनः सन्ति। एतैः ग्रहस्य सायनभोगांशादिः प्राप्यते। सायनभोगांशादिषु अयनांशापक्षीयने दृक्पक्षीयपञ्चाङ्गानां निरयनम्, भोगांशादिः प्राप्यन्ते। यः पञ्चाङ्गो दृक्पक्षीयमतानुसारेण न निर्मितो वर्तते तस्मिन् बहु अशुद्धताः भवन्ति ता अपि एतैः यन्त्रैः निर्णीयन्ते। यदा सायनकर्कारम्भबिन्दुः याम्योत्तरलङ्घनं करिष्यते, तदा कर्कराशिवलये , यदा सायनमकराम्भबिन्दुयाम्योत्तरलङ्घनं करिष्यते, तदा मकराशिवलये सूर्यवेधने अर्थात् तस्मिन् समये सूर्यः यावति अंशे स्थास्यति तावदेव सायनसूर्यस्स्पष्टो वेत्स्यते। तस्मिन्नयनांशापक्षीयणेन दृक्पक्षीयनिरयनम्, सूर्यः स्पष्टः ज्ञातः वेत्स्यते। इत्थं यदा एतेषां राशीनाम्प्रारम्भिकबिन्दुः याम्योत्तरलङ्घनं करिष्यते तदा केषाञ्चिदपि आकाशे ग्रहाणां वेधकरणे तस्य ग्रहस्य सायनभोगांशः प्राप्स्यते। रात्रौ ग्रहाणां प्रकाशः केवलं चद्रमसं विहाय तु आकिरति नैव, अतः सम्यग् याम्योत्तरलङ्घनकाले यन्त्रस्य उभयोः पार्श्वयोः निर्मितचापभागेषु यत्रत्य चापभागे ग्रहो दृश्येत , त्तस्मिन् स्वदृष्टिस्तथा निपतेत् येन ग्रहः कर्णाग्रे श्लिष्टः दृष्येत अर्थात् दृष्टिकर्णाग्रम् तथा ग्रहः यतः एकस्मिन् सूत्रे दृश्यते तस्मिन् दृष्टिबिन्दौ चापे यावन्तः अंशादयो भविष्यन्ति, त एव तस्य ग्रहस्य सकाशे भोगांशादयो भविष्यन्ति। सायनमेष-दशमारम्भकालज्ञानार्थसँलग्नसारण्युपयोगकरणे सुगमतया आरम्भकालो ज्ञायते। अयं सायनमेष-दशमारम्भकालगणितसँलग्नसारण्या सम्राटपलभायन्त्रविवरणे दत्तः। सायनमेषदशमारम्भकाले 5होरा 46निमेषयोजने सायनकर्कदशमारम्भकालस्तथा 17होरा 58निमेषयोजने सायन तुलादशमारम्भकालो ज्ञायते। इत्थमेतानि यन्त्राणि महत्त्वपूर्णानि सन्ति।