प्रो. राम सलहई द्विवेदी
विभागाध्यक्ष
व्याकरण विभाग के प्रोफेसर
31.01.2023 से 30.01.2026
‘‘मुखं व्याकरणं स्मृतम्’’
भाषाविदां विभिन्नसमस्यानामनितरसाधारणसमाधानं व्याकरणशास्त्रधीनमेव वर्तत इति सर्वेषामतिरोहितम्। यतः व्याकरणशास्त्रं शब्दानुशासनं शास्त्रम्, तदेव शब्दपरम्परा व्यवस्थापनं तस्य मुख्यं प्रयोजनम्। इदञ्च शास्त्रमद्यत्वे त्रिमुनिमतेन समाक्रान्तम्। ते च मुनयः (पाणिनिकात्यायनपतञ्जलयः) इति वर्तन्ते। इदञ्च शास्त्रं प्राचीननव्यभेदेन द्विधा विभक्तम्।
प्राचीनं हि व्याकरणमस्य शास्त्रस्य जीवातुग्रन्थं पाणिन्यष्टकाभिधेयं यथाक्रममध्येतृभ्यः पाठ्यत्वेनोपस्थापयति। तत्र पदकृत्यव्याजेन सूत्राणां यथार्थज्ञानाय सुगमतया बोधनाय चोदाहरणप्रत्युदाहरणाभ्यां व्याख्यानं जायते। किञ्च महाभाष्यमधिकृत्य जयादित्यवामनाभ्यामवधारितसिद्धान्तानामेव प्रतिष्ठापनं जायते। नैके ग्रन्था अत्र मते प्रणीताः। एवं वक्तुं शक्यते यदत्र रूपावतारेति ग्रन्थकर्तुः धर्मकीर्तेः सिद्धान्तादारभ्य आकैयटान्तमाचार्यमतं विश्लेषितं वर्तते।
नव्यव्याकरणे तु भट्टोजिदीक्षितादारभ्य नागेशभट्टपर्यन्तानां किञ्चाद्यतनाचार्याणामपि मतानां विश्लेषणं नव्यतर्कदिशा सम्पाद्यते। स्पष्टमिदं यत्समग्रमपि व्याकरणं प्रक्रियापरिष्कारदर्शनभेदेन त्रिविधं स्वरूपमाकलयति। तदेव महाभाष्यस्य विशिष्टसिद्धान्तानामत्यन्तमवधानेनोपपादितसिद्धान्तानाञ्चावगमोऽत्र साध्यते। अत्र ग्रन्थाः प्रमुखतया भवन्ति - वैयाकरणभूषणसारः, प्रौढ़मनोरमा, लघुशब्देन्दुशेखरः, वाक्यपदीयम्, परिभाषेन्दुशेखर इत्यादयो वर्तन्ते।
एवमेव विभागान्तरीयच्छात्राणां सौबुध्यमभिलक्ष्य विभागीयच्छात्राणाञ्च विषयान्तरप्रवेशाय विकल्पाधारितपाठड्ढक्रमोऽपि निर्धारितो वर्तते। अस्मिन्नेव विभागे विशिष्टाचार्यविद्यावारिधिकक्षासु प्रविष्टाः छात्राः सूक्ष्मेक्षिकयापरिमितां नैपुणीं लभन्ते। तदर्थं व्याख्यानानि कार्यशालाः शोधपरिषच्च काले काले समायोज्यन्ते। विशेषतः व्याकरणपरिषद्विभागीयच्छात्राणां बहुविधं चतुर्मुखमवसरमभिलक्ष्य अनेकान् कार्यक्रमान् समायोजयति। प्रतिस्पर्धाविधानेन तद्गताम्प्रतिभामपि समुन्नयति।
संस्कृतभाषायाः सामान्यजनेषु स्थापनार्थमत्र संस्कृतपत्रकारिता, संस्कृतसम्भाषणम्, एडवांस्डसंस्कृतपत्रकारिता इत्यादिरूपेणानेके पाठ्यक्रमा अपि सञ्चाल्यन्ते। अपि चायं विभागः छात्राणां हितमभिसन्धायान्यद्यावदपि कर्तव्यं विदधाति।