प्रो. के. अनंथा
विभागाध्यक्ष
प्रोफेसर, विशिष्टाद्वैत विभाग
15.10.2024 से अगले आदेश तक
विशिष्टाद्वैतवेदान्तदर्शने त्रीणि तत्त्वानि अङ्गीकृतानि सन्ति । तानि यथा- जीवः, प्रकृतिः ईश्वरश्च । ब्रह्म च चिदचिद्विशिष्टं वर्तते । चिच्छब्दवाच्यः जीवो भवति , अचिच्छब्दवाच्यश्च प्रकृतिः । अस्मिन् सिद्धान्ते जीव एवं प्रकृतिः ब्रह्मविशिष्टम् इत्युक्तत्वात् जीवः सत्यः, प्रकृतिश्च सत्या इति स्वत एव ज्ञायते । ब्रह्मशब्देन च साक्षात् भगवान् श्रीमन्नारायणः अभिधीयते । एवमेव आत्मपरमात्मसदादिनामान्तराण्यपि व्यवह्रियन्ते । स्वयं भगवता प्रवर्तितत्वात् अस्ति अस्य शास्त्रस्य महत् वैशिष्ट्यम् । विशिष्टाद्वैतवेदान्तस्य सम्यक् ज्ञानाय व्यास-बोधायन-नाथमुनि-यामुनमुनि-भगवद्रामानुज-वेदान्तदेशिकप्रभृतय महद् आचार्याः स्वकृतिकृतिभिः अद्यापि अधिगन्तृन् प्रेरयन्ति ।
सदाचारयुक्तस्य मानवसमाजस्य धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टप्राप्त्यर्थम् अथवा प्राप्तिमार्गप्रतिपादनार्थं च सततम् अस्य वेदान्तस्य आचार्याः प्रवृत्ताः आसन् सन्ति च, एतदेव अस्मिन् वेदान्ते तत्र तत्र ग्रन्थेषु विशदतया प्रतिपादनम् अस्ति । वेदस्य अन्तिमो भागः निर्णयो वा वेदान्तः । अस्यैव वेदान्तस्य ज्ञानमीमांसा इत्यपि व्यवहारो वर्तते । पूर्वोत्तरमीमांसयोः एकशास्त्रत्वम् अस्मिन् सिद्धान्ते निरूपितम् अस्ति । आचार्या अर्थपञ्चकम् एवं निरूपयन्ति –
अस्यायमर्थः- प्राप्यस्य ब्रह्मणः यथार्थं स्वरूपं, प्राप्तुश्च जीवात्मनः यथार्थं स्वरूपं, ब्रह्मप्राप्त्युपायः, ब्रह्मप्राप्तिफलम् एवं ब्रह्मप्राप्तिविरोधीनां ज्ञानमेव अर्थपञ्चकम् । अलौकिकतत्त्वस्य ज्ञानं वेदान्तस्य भेदाभेदघटकश्रुतीनाम् अध्ययनेन स्पष्टं भवति । वेदान्तोऽयं सिद्धान्तः भेदाभेदघटकश्रुतीनां सर्वासामपि समन्वयपरः वर्तते । अस्य वेदान्तस्य आधारग्रन्थाः, यथा- सिद्धित्रयम्, स्तोत्ररत्नम्, श्रीभाष्यम्, न्यायसिद्धाञ्जनम्, न्यायपरिशुद्धिः एवं शतदूषणी इत्यादि प्रौढग्रन्थाः सन्ति । प्रविविक्षूनां कृते यतीन्द्रमतदीपिका, वेदान्तकारिकावली इत्यादयः प्रकरणग्रन्था अपि सन्ति । उपर्युक्तग्रन्थाः पाठ्यक्रमे प्रवेशिताः वर्तन्ते ।
विशिष्टाद्वैतवेदान्तस्य अध्ययनहेतवे प्रविष्टानां विद्यार्थिनां नूनं सर्वतोमुखविकासो भवतीति ।